बुधवार, 14 जून 2017

वृक्षस्य आत्मकथा

!!!---: वृक्षस्य आत्मकथा :---!!!
======================= click here
अहम् एकः छिन्नः द्रुमः अस्मि ।

ह्यः वने एकः नरः आगच्छत् ।

सः काष्ठाय मम शरीरम् अच्छिन्दत् ।

छेदनेन मे शरीरे अनेके व्रणाः जाताः ।

छुरिकायाः प्रहारेण शरीरात् अश्रुरूपाः जलबिन्दवः अपतन् ।

अकथनीया मम पीडा ।

हृदयं विदीर्णं जातम् ।

अश्रुभिः कण्ठः अवरुद्धः जातः ।

मम अन्तकालः समीपे एव तिष्ठति ।

काष्ठानि एकत्रीकृत्य सः तु अगच्छत् ।

परं कोSस्ति अत्र व्यथाकथाश्रवणाय ?

वृक्षान् छित्त्वा नरः प्रकृतिमातुः अङ्गानि नाशयति ।

इन्धनाय, कर्गदपत्राय, भवननिर्माणाय मम काष्ठस्य प्रयोगः भवति ।

किन्तु कुतः मम पत्राणि, पुष्पाणि कुतः च रोगनिवारणाय ओषधयः ?

निराश्रिताः भविष्यन्ति आश्रिताः खगाः ।

पन्थानः च छायाहीनाः भविष्यन्ति ।

आतपेन तप्तः श्रान्तः पथिकः अधुना कुत्र गमिष्यति ?

मम जीवने पुनः वसन्तर्तुः न आगमिष्यति ।
===============================
वेबसाइट---
www.vaidiksanskritk.com
www.shishusanskritam.com
संस्कृत नौकरियों के लिए---
www.facebook.com/sanskritnaukari
आयुर्वेद और हमारा जीवनः--
www.facebook.com/aayurvedjeevan
चाणक्य-नीति पढें---
www.facebook.com/chaanakyaneeti
वैदिक साहित्य की जानकारी प्राप्त करें---
www.facebook.com/vaidiksanskrit
www.facebook.com/shabdanu
लौकिक साहित्य पढें---
www.facebook.com/laukiksanskrit
आर्ष-साहित्य और आर्य विचारधारा के लिए
www.facebook.com/aarshdrishti
सामान्य ज्ञान प्राप्त करें---
www.facebook.com/jnanodaya
संस्कृत सीखें---
www.facebook.com/shishusanskritam
संस्कृत निबन्ध पढें----
www.facebook.com/girvanvani
संस्कृत काव्य का रसास्वादन करें---
www.facebook.com/kavyanzali
संस्कृत सूक्ति पढें---
www.facebook.com/suktisudha
संस्कृत की कहानियाँ पढें---
www.facebook.com/kathamanzari
संस्कृत में मनोरंजन--
www.facebook.com/patakshepa

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें