मंगलवार, 20 जून 2017

आधुनिकं सञ्चारसाधनम्

 गीर्वाणवाणी
वैज्ञानिकाः सञ्चारसाधनेषु प्रतिदिनं नवीनतमान् आविष्करान् कुर्वन्ति येन सन्देशप्रेषणे अधिकतमा सुविधा स्यात् ।
चलभाषितयन्त्रम् (मोबाइल सेलफोन) तादृशम् एव लोकप्रिययन्त्रम्  ।
बालाः, वृद्धाः, युवकाः पुरुषाः, महिलाः, नागरिकाः, ग्रामीणाः कर्मकराः च  सर्वेषामेव एतत् कर्णभूषणं जातम् ।
यानानि आरूढा, कार्यालयेषु कार्यं कुर्वन्तः, मार्गेषु चलन्तः, सभागारेषु प्रवचनं शृण्वन्तः, जनाः अस्य ध्वनिं श्रुत्वा वार्तामग्नाः भवन्ति ।

सोमवार, 19 जून 2017

वाण्याः महत्त्वम्

गीर्वाणवाणी

जिह्वायाः माधुर्यं स्वर्गं प्रापयति, जिह्वायाः कटुता नरके पातयति ।
एक एव शब्दः जीवनं विभूषयेत्, अन्य एकः शब्द जीवनं नाशयेत् ।
एकदा द्वयोः धनिनोः मध्ये विवादः उत्पन्नः जातः ।
तौ न्यायालयं गतौ ।
एकः धनिकः अचिन्तयत्---"अहं लक्षं रूप्यकाणि न्यायाधीशाय यच्छामि" इति ।
सः स्यूते लक्षं रूप्यकाणि स्थापयित्वा न्यायाधीशस्य गृहं गतवान् ।
न्यायाधीशः तस्य मन्तव्यं ज्ञात्वा क्रुद्धः अभवत् ।
धनिकः अवदत्---"भो मत्सदृशाः लक्षरूप्यकाणां दातारः दुर्लभाः एव ।"
न्यायाधीशः अवदत्---"लक्षरूप्यकाणां दातारः कदाचित् अन्ये अपि भवेयुः, परन्तु लक्षरूप्यकाणां निराकर्त्तारः मत्सदृशाः अन्ये विरलाः एव ।"
अतः कृपया गच्छतु ।
न्यायस्थानं मलिनं मा कुरु ।
लज्जितः धनिकः धनस्यूतं गृहीत्वा ततः निर्गतः ।
===============================

   वेबसाइट---
www.vaidiksanskritk.com
www.shishusanskritam.com
वैदिक साहित्य की जानकारी प्राप्त करें---
www.facebook.com/vaidiksanskrit
www.facebook.com/shabdanu
संस्कृत नौकरियों के लिए---

www.facebook.com/sanskritnaukari
आयुर्वेद और हमारा जीवनः--
www.facebook.com/aayurvedjeevan
चाणक्य-नीति पढें---
www.facebook.com/chaanakyaneeti
लौकिक साहित्य पढें---
www.facebook.com/laukiksanskrit
आर्ष-साहित्य और आर्य विचारधारा के लिए
www.facebook.com/aarshdrishti
सामान्य ज्ञान प्राप्त करें---
www.facebook.com/jnanodaya
संस्कृत सीखें---
www.facebook.com/shishusanskritam
संस्कृत निबन्ध पढें----
www.facebook.com/girvanvani
संस्कृत काव्य का रसास्वादन करें---
www.facebook.com/kavyanzali
संस्कृत सूक्ति पढें---
www.facebook.com/suktisudha
संस्कृत की कहानियाँ पढें---
www.facebook.com/kathamanzari
संस्कृत में मनोरंजन--
www.facebook.com/patakshepa

गुरुवार, 15 जून 2017

क्रोधः

क्रोधः

क्रोधः मनुष्यस्य प्रधानः वैरी अस्ति ।

अस्माकं शास्त्रेषु वर्णितं यत् क्रोधः सुदुर्जयः शत्रुः अस्ति ।

समाजे एतादृशाः निरलाः एव जनाः भवन्ति, ये क्रोधं न कुर्वन्ति ।

क्रोधी मनुष्यः सदा कष्टम् अनुभवति ।

क्रोधवशात् उन्मत्तः भूत्वा सः अन्यान् पीडयति ।

बहवः अपराधिनः क्रोधस्य कारणात् एव अपराधं कुर्वन्ति ।

क्रोधः प्रायः क्षणिकः भवति ।

ये क्षणिक- क्रोधं वशीकुर्वन्ति , ते सदा सुखिनः भवन्ति ।

अतः क्रोधं विहाय जनाः क्षमाशीलाः भवन्तु ।

क्रोधान्धः जनः पूर्वं तु अपराधं करोति, पश्चात् सः पश्चात्तापं करोति ।

क्रोधवशात् अपराधकारणेन मानवः पापयुक्तः भवति ।

समस्तानां पापानां मूलकारणं क्रोधः एव अस्ति ।

क्रोधकारणेन संसारे युद्धाः भवन्ति ।

सर्वे जानन्ति यत क्रोधकारणेन महाभारतयुद्धम् अभवत् ।

क्रोधः सचित्तानाम् अपि तपसां विनाशं करोति ।

अतः क्रोधः सर्वथा त्याज्यः ।
===============================
वेबसाइट---
www.vaidiksanskritk.com
www.shishusanskritam.com
वैदिक साहित्य की जानकारी प्राप्त करें---
www.facebook.com/vaidiksanskrit
www.facebook.com/shabdanu
लौकिक साहित्य पढें---
www.facebook.com/laukiksanskrit
संस्कृत नौकरियों के लिए---

www.facebook.com/sanskritnaukari
आयुर्वेद और हमारा जीवनः--
www.facebook.com/aayurvedjeevan
चाणक्य-नीति पढें---
www.facebook.com/chaanakyaneeti
आर्ष-साहित्य और आर्य विचारधारा के लिए
www.facebook.com/aarshdrishti
सामान्य ज्ञान प्राप्त करें---
www.facebook.com/jnanodaya
संस्कृत सीखें---
www.facebook.com/shishusanskritam
संस्कृत निबन्ध पढें----
www.facebook.com/girvanvani
संस्कृत काव्य का रसास्वादन करें---
www.facebook.com/kavyanzali
संस्कृत सूक्ति पढें---
www.facebook.com/suktisudha
संस्कृत की कहानियाँ पढें---
www.facebook.com/kathamanzari
संस्कृत में मनोरंजन--
www.facebook.com/patakshepa

बुधवार, 14 जून 2017

वृक्षस्य आत्मकथा

!!!---: वृक्षस्य आत्मकथा :---!!!
======================= click here
अहम् एकः छिन्नः द्रुमः अस्मि ।

ह्यः वने एकः नरः आगच्छत् ।

सः काष्ठाय मम शरीरम् अच्छिन्दत् ।

छेदनेन मे शरीरे अनेके व्रणाः जाताः ।

छुरिकायाः प्रहारेण शरीरात् अश्रुरूपाः जलबिन्दवः अपतन् ।

अकथनीया मम पीडा ।

हृदयं विदीर्णं जातम् ।

अश्रुभिः कण्ठः अवरुद्धः जातः ।

मम अन्तकालः समीपे एव तिष्ठति ।

काष्ठानि एकत्रीकृत्य सः तु अगच्छत् ।

परं कोSस्ति अत्र व्यथाकथाश्रवणाय ?

वृक्षान् छित्त्वा नरः प्रकृतिमातुः अङ्गानि नाशयति ।

इन्धनाय, कर्गदपत्राय, भवननिर्माणाय मम काष्ठस्य प्रयोगः भवति ।

किन्तु कुतः मम पत्राणि, पुष्पाणि कुतः च रोगनिवारणाय ओषधयः ?

निराश्रिताः भविष्यन्ति आश्रिताः खगाः ।

पन्थानः च छायाहीनाः भविष्यन्ति ।

आतपेन तप्तः श्रान्तः पथिकः अधुना कुत्र गमिष्यति ?

मम जीवने पुनः वसन्तर्तुः न आगमिष्यति ।
===============================
वेबसाइट---
www.vaidiksanskritk.com
www.shishusanskritam.com
संस्कृत नौकरियों के लिए---
www.facebook.com/sanskritnaukari
आयुर्वेद और हमारा जीवनः--
www.facebook.com/aayurvedjeevan
चाणक्य-नीति पढें---
www.facebook.com/chaanakyaneeti
वैदिक साहित्य की जानकारी प्राप्त करें---
www.facebook.com/vaidiksanskrit
www.facebook.com/shabdanu
लौकिक साहित्य पढें---
www.facebook.com/laukiksanskrit
आर्ष-साहित्य और आर्य विचारधारा के लिए
www.facebook.com/aarshdrishti
सामान्य ज्ञान प्राप्त करें---
www.facebook.com/jnanodaya
संस्कृत सीखें---
www.facebook.com/shishusanskritam
संस्कृत निबन्ध पढें----
www.facebook.com/girvanvani
संस्कृत काव्य का रसास्वादन करें---
www.facebook.com/kavyanzali
संस्कृत सूक्ति पढें---
www.facebook.com/suktisudha
संस्कृत की कहानियाँ पढें---
www.facebook.com/kathamanzari
संस्कृत में मनोरंजन--
www.facebook.com/patakshepa

रविवार, 11 जून 2017

विद्या

!!!---: विद्या :---!!!
================
कस्यापि वस्तुनः यथार्थतः ज्ञानं विद्या इति कथ्यते ।

संसारे यानि धनानि सन्ति, तेषु विद्या सर्वश्रेष्ठं धनमस्ति ।

विद्यया मनुष्यः स्वकीयं कर्त्तव्यम् अकर्त्तव्यं च जानाति ।

विद्यया एव मनुष्यः जानाति यत् संसारे कः धर्मः, कः अधर्मः, किं पापम्, किं च पुण्यम् इति ।

विद्यया एव मनुष्यः सन्मार्गम् अनुसरति, कुमार्गं च परित्यजति ।

विद्यया एव मनुष्यः यथार्थतः मनुष्यः भवति ।

यः विद्याहीनः अस्ति, सः स्वकीयं कर्त्तव्यं न जानाति ।

अतः कथ्यते---विद्याविहीनः पशुः, अर्थात् विद्यया रहितः नरः पशुः भवति ।

सर्वाणि धनानि व्यये कृते न्यूनानि भवन्ति, परन्तु विद्या व्यये कृते वर्धते ।

विद्यया मनुष्यस्य सम्मानं भवति ।

विद्वान् मनुष्यः सर्वत्र सम्मानं लभते ।

राजा स्वदेशे एव पूज्यते, परन्तु विद्वान् सम्पूरणे एव जगति आदरं प्राप्नोति ।

सर्वेषाम् एतत् कर्त्तव्यम् अस्ति, यत् ते परिश्रमेण विद्यां पठेयुः ।
===============================
वेबसाइट---
www.vaidiksanskritk.com
www.shishusanskritam.com
संस्कृत नौकरियों के लिए---
www.facebook.com/sanskritnaukari
आयुर्वेद और हमारा जीवनः--
www.facebook.com/aayurvedjeevan
चाणक्य-नीति पढें---
www.facebook.com/chaanakyaneeti
वैदिक साहित्य की जानकारी प्राप्त करें---
www.facebook.com/vaidiksanskrit
www.facebook.com/shabdanu
लौकिक साहित्य पढें---
www.facebook.com/laukiksanskrit
आर्ष-साहित्य और आर्य विचारधारा के लिए
www.facebook.com/aarshdrishti
सामान्य ज्ञान प्राप्त करें---
www.facebook.com/jnanodaya
संस्कृत सीखें---
www.facebook.com/shishusanskritam
संस्कृत निबन्ध पढें----
www.facebook.com/girvanvani
संस्कृत काव्य का रसास्वादन करें---
www.facebook.com/kavyanzali
संस्कृत सूक्ति पढें---
www.facebook.com/suktisudha
संस्कृत की कहानियाँ पढें---
www.facebook.com/kathamanzari
संस्कृत में मनोरंजन--
www.facebook.com/patakshepa

शनिवार, 10 जून 2017

अनुशासनम्

!!!---: अनुशासनम् :---!!!
=====================

अनुशासन-पालनेनैव मानवः जीवने साफल्यमधिगच्छति ।

बाल्ये यौवने प्रौढत्वे वार्द्धक्ये चापि अनुशासनस्य आवश्यकता अस्ति ।

एवं हि गृहे विद्यालये सार्वजनिकसंस्थासु शासने सेनायां वा अनेन विना कार्यं न प्रचलति ।

यदि छात्राः विद्यालये अनुशासनस्य पालनं न कुर्युः, तदा तत्र अव्यवस्था भवेत् ।

अद्यत्वे विद्यालयेषु महाविद्यालयेषु च सर्वत्रानुशासनस्याभावः दृश्यते , येन ताः संस्थाः उपद्रवाणां कलहानां च केन्द्राणि जाताः ।

यदि शासने अनुशासनं न भवेत् तर्हि सर्वमपि राष्ट्रम् विशृंखलताम् गच्छेत् ।

अतः आत्मनः देशस्य समाजस्य चोन्नत्यै अनुशासनं नितराम् आवश्यकम् ।

ये छात्राः जनाश्च स्वजीवने अनुशासनस्य पालनं कुर्वन्ति ते सदैव सफलतां प्राप्नुवन्ति ।

अनुशासनं सफलतायाः कुञ्जिका वर्तते । अतः सदैव अनुशासनस्य पालनं कुर्युः ।
यथासमये जागर्तु, समये स्वपितु, समये स्नातु, समये धावनं प्रक्षालनम्, क्रीडनम्, पठनम्, लेखनम् अन्यानि कार्याणि च समये करोतु ।

अनुशासनपालनेन मनुष्यस्य जीवनं नियमितं भवति ।
===============================
वेबसाइट---
www.vaidiksanskritk.com
www.shishusanskritam.com
संस्कृत नौकरियों के लिए---
www.facebook.com/sanskritnaukari
आयुर्वेद और हमारा जीवनः--
www.facebook.com/aayurvedjeevan
चाणक्य-नीति पढें---
www.facebook.com/chaanakyaneeti
वैदिक साहित्य की जानकारी प्राप्त करें---
www.facebook.com/vaidiksanskrit
www.facebook.com/shabdanu
लौकिक साहित्य पढें---
www.facebook.com/laukiksanskrit
आर्ष-साहित्य और आर्य विचारधारा के लिए
www.facebook.com/aarshdrishti
सामान्य ज्ञान प्राप्त करें---
www.facebook.com/jnanodaya
संस्कृत सीखें---
www.facebook.com/shishusanskritam
संस्कृत निबन्ध पढें----
www.facebook.com/girvanvani
संस्कृत काव्य का रसास्वादन करें---
www.facebook.com/kavyanzali
संस्कृत सूक्ति पढें---
www.facebook.com/suktisudha
संस्कृत की कहानियाँ पढें---
www.facebook.com/kathamanzari
संस्कृत में मनोरंजन--
www.facebook.com/patakshepa