!!!---: चतुर्थी विभक्ति का प्रयोग :---!!!
==========================
"अज्ञानतिमिरान्धस्य ज्ञानाञ्जनशलाकया ।
चक्षुरुन्मीलितं येन तस्मै श्रीगुरवे नमः ॥"
(१.) नमः स्वस्तिस्वाहास्वधालंवषड्योगाच्च । (२.३.१६)
===========================
नमो ब्रह्मणे व्यापिने शाश्वताय ।
नमः शम्भवाय च । नमः मयोभवाय च । नमः शंकराय च । मयस्कराय च । शिवाय च शिवतराय च ।
इदं देवमन्दिरम् अस्ति ।
अत्र "ओ३म् नमः शिवाय" इति ध्वनिः श्रूयते ।
मन्दिरस्य परिसरे प्रातःकाले यज्ञः भवति ।
यज्ञे यज्ञकर्तारः देवेभ्यः आहुतयः यच्छन्ति ।
तदा ते "ओ३म् अग्नये स्वाहा ।
ओ३म् सोमाय स्वाहा ।
ओ३म् प्रजापतये स्वाहा ।
ओ३म् इन्द्राय स्वाहा ।
इति मन्त्रान् उच्चारयन्ति ।
यज्ञ कार्यसाधनाय अलम् अस्ति ।
स्वस्ति---
=======
प्रजाभ्यः स्वस्ति ।
स्वस्ति न इन्द्रो वृद्धश्रवाः ।
स्वस्ति न पूषा विश्ववेदाः ।
स्वस्तिनस्तार्क्ष्यो अरिष्टनेमिः ।
स्वस्ति नो बृहस्पतिर्दधातु ।
स्वधा
======
पितृभ्यः स्वधा ।
जनेभ्यः स्वधा ।
वषट्
========
अग्नये वषट् ।
इन्द्राय वषट् ।
अलम् समर्थभावे---
============
अलं मल्लः मल्लाय ।
सुग्रीवः बालिने अलम् ।
अयम् ओषधिः पीडिताय अलम् ।
एषा भिक्षा याचकाय अलम् ।
इयं शाटिका भगिन्यै अलम् ।
तावत् वेतनं भृत्याय अलं नास्ति ।
(२.) रुच्यर्थानां प्रीयमाणः (१.४.३३)
=====================
घृताहुतिः देवेभ्यः रोचते ।
इन्द्राय आज्यं बहु रोचते ।
अश्विभ्यां मधु बहु रोचते ।
मोदकं बालकेभ्यः बहु रोचते ।
पिता आपणात् बहूनि वस्तूनि क्रीत्वा आनयति ।
वस्तुषु मोदकानि, आम्राणि, पुस्तकम्, लेखनी, स्यूतः, कूर्चः, ध्वनिमुद्रिका (कैसेट), कंकणम्, कर्त्तरी, चित्रम्, मूर्तिः चासन् ।
पिता गृहे सर्वान् आहूय कथयति---यत् यस्मै रोचते, तत् तस्मै दीयते ।
सर्वे प्रसन्नाः अभवन् ।
शिशुभ्यः मोदकानि रोचन्ते ।
अतः मोदकानि तेभ्यः दीयन्ते ।
आम्राणि सर्वेभ्यः रोचन्ते ।
अतः सर्वेभ्यः वण्टयित्वा आम्राणि दीयन्ते ।
पुस्तकं अमिताय, लेखनी राधिकायै, स्यूतः मोहिन्यै, कर्त्तरी लतायै, ध्वनिमुद्रिका जनन्यै, कंकणं भगिन्यै, चित्रं देवदत्ताय, मूर्तिः च कृष्णाय रोचन्ते स्म ।
अतः एतानि वस्तूनि तेभ्यः तेभ्यः दीयन्ते ।
ऋषये चित्रकला रोचते स्म, अतः कूर्चः तस्मै दीयते ।
नियमः---
===========
(१.) कर्मणा यमभिप्रैति स सम्प्रदानम् (१.४.३२)
===========================
कर्म के द्वारा जिसे सबसे अधिक चाहा जाए, उसमें सम्प्रदान कारक होता है ।
(२.) रुच्यर्थानां प्रीयमाणः (१.४.३३)
=================
रुच् धातु और उसके अर्थ वाली अन्य धातुओं के योग में भी सम्प्रदान होता है । उदाहरण ऊपर देखें ।
(३.) नमः स्वस्तिस्वाहास्वधालंवषड्योगाच्च । (२.३.१६)
===========================
इन शब्दों के योग में चतुर्थी विभक्ति होती है---नमः, स्वस्ति (कल्याण), स्वाहा, स्वधा (कल्याण), अलम् (समर्थ), वषट् (स्वाहा) । इनके उदाहरण ऊपर दे दिए गए हैं ।
===============================
वेबसाइट---
www.vaidiksanskritk.com
www.shishusanskritam.com
संस्कृत नौकरियों के लिए---
www.facebook.com/sanskritnaukari
आयुर्वेद और हमारा जीवनः--
www.facebook.com/aayurvedjeevan
चाणक्य-नीति पढें---
www.facebook.com/chaanakyaneeti
वैदिक साहित्य की जानकारी प्राप्त करें---
www.facebook.com/vaidiksanskrit
www.facebook.com/shabdanu
लौकिक साहित्य पढें---
www.facebook.com/laukiksanskrit
आर्ष-साहित्य और आर्य विचारधारा के लिए
www.facebook.com/aarshdrishti
सामान्य ज्ञान प्राप्त करें---
www.facebook.com/jnanodaya
संस्कृत सीखें---
www.facebook.com/shishusanskritam
संस्कृत निबन्ध पढें----
www.facebook.com/girvanvani
संस्कृत काव्य का रसास्वादन करें---
www.facebook.com/kavyanzali
संस्कृत सूक्ति पढें---
www.facebook.com/suktisudha
संस्कृत की कहानियाँ पढें---
www.facebook.com/kathamanzari
संस्कृत में मनोरंजन--
www.facebook.com/patakshepa
www.vaidiksanskritk.com
www.shishusanskritam.com
संस्कृत नौकरियों के लिए---
www.facebook.com/sanskritnaukari
आयुर्वेद और हमारा जीवनः--
www.facebook.com/aayurvedjeevan
चाणक्य-नीति पढें---
www.facebook.com/chaanakyaneeti
वैदिक साहित्य की जानकारी प्राप्त करें---
www.facebook.com/vaidiksanskrit
www.facebook.com/shabdanu
लौकिक साहित्य पढें---
www.facebook.com/laukiksanskrit
आर्ष-साहित्य और आर्य विचारधारा के लिए
www.facebook.com/aarshdrishti
सामान्य ज्ञान प्राप्त करें---
www.facebook.com/jnanodaya
संस्कृत सीखें---
www.facebook.com/shishusanskritam
संस्कृत निबन्ध पढें----
www.facebook.com/girvanvani
संस्कृत काव्य का रसास्वादन करें---
www.facebook.com/kavyanzali
संस्कृत सूक्ति पढें---
www.facebook.com/suktisudha
संस्कृत की कहानियाँ पढें---
www.facebook.com/kathamanzari
संस्कृत में मनोरंजन--
www.facebook.com/patakshepa


