शुक्रवार, 9 जून 2017

चतुर्थी विभक्ति का प्रयोग

!!!---: चतुर्थी विभक्ति का प्रयोग :---!!!
==========================

"अज्ञानतिमिरान्धस्य ज्ञानाञ्जनशलाकया ।
चक्षुरुन्मीलितं येन तस्मै श्रीगुरवे नमः ॥"

(१.) नमः स्वस्तिस्वाहास्वधालंवषड्योगाच्च । (२.३.१६)
===========================

नमो ब्रह्मणे व्यापिने शाश्वताय ।

नमः शम्भवाय च । नमः मयोभवाय च । नमः शंकराय च । मयस्कराय च । शिवाय च शिवतराय च ।

इदं देवमन्दिरम् अस्ति ।

अत्र "ओ३म् नमः शिवाय" इति ध्वनिः श्रूयते ।

मन्दिरस्य परिसरे प्रातःकाले यज्ञः भवति ।

यज्ञे यज्ञकर्तारः देवेभ्यः आहुतयः यच्छन्ति ।

तदा ते "ओ३म् अग्नये स्वाहा ।

ओ३म् सोमाय स्वाहा ।

ओ३म् प्रजापतये स्वाहा ।

ओ३म् इन्द्राय स्वाहा ।

इति मन्त्रान् उच्चारयन्ति ।

यज्ञ कार्यसाधनाय अलम् अस्ति ।

स्वस्ति---
=======

प्रजाभ्यः स्वस्ति ।

स्वस्ति न इन्द्रो वृद्धश्रवाः ।

स्वस्ति न पूषा विश्ववेदाः ।

स्वस्तिनस्तार्क्ष्यो अरिष्टनेमिः ।

स्वस्ति नो बृहस्पतिर्दधातु ।

स्वधा
======

पितृभ्यः स्वधा ।

जनेभ्यः स्वधा ।

वषट्
========

अग्नये वषट् ।

इन्द्राय वषट् ।

अलम् समर्थभावे---
============

अलं मल्लः मल्लाय ।

सुग्रीवः बालिने अलम् ।

अयम् ओषधिः पीडिताय अलम् ।

एषा भिक्षा याचकाय अलम् ।

इयं शाटिका भगिन्यै अलम् ।

तावत् वेतनं भृत्याय अलं नास्ति ।

(२.) रुच्यर्थानां प्रीयमाणः (१.४.३३)
=====================

घृताहुतिः देवेभ्यः रोचते ।

इन्द्राय आज्यं बहु रोचते ।

अश्विभ्यां मधु बहु रोचते ।

मोदकं बालकेभ्यः बहु रोचते ।

पिता आपणात् बहूनि वस्तूनि क्रीत्वा आनयति ।

वस्तुषु मोदकानि, आम्राणि, पुस्तकम्, लेखनी, स्यूतः, कूर्चः, ध्वनिमुद्रिका (कैसेट), कंकणम्, कर्त्तरी, चित्रम्, मूर्तिः चासन् ।

पिता गृहे सर्वान् आहूय कथयति---यत् यस्मै रोचते, तत् तस्मै दीयते ।

सर्वे प्रसन्नाः अभवन् ।

शिशुभ्यः मोदकानि रोचन्ते ।

अतः मोदकानि तेभ्यः दीयन्ते ।

आम्राणि सर्वेभ्यः रोचन्ते ।

अतः सर्वेभ्यः वण्टयित्वा आम्राणि दीयन्ते ।

पुस्तकं अमिताय, लेखनी राधिकायै, स्यूतः मोहिन्यै, कर्त्तरी लतायै, ध्वनिमुद्रिका जनन्यै, कंकणं भगिन्यै, चित्रं देवदत्ताय, मूर्तिः च कृष्णाय रोचन्ते स्म ।

अतः एतानि वस्तूनि तेभ्यः तेभ्यः दीयन्ते ।

ऋषये चित्रकला रोचते स्म, अतः कूर्चः तस्मै दीयते ।

नियमः---
===========

(१.) कर्मणा यमभिप्रैति स सम्प्रदानम् (१.४.३२)
===========================
कर्म के द्वारा जिसे सबसे अधिक चाहा जाए, उसमें सम्प्रदान कारक होता है ।

(२.) रुच्यर्थानां प्रीयमाणः (१.४.३३)
=================
रुच् धातु और उसके अर्थ वाली अन्य धातुओं के योग में भी सम्प्रदान होता है । उदाहरण ऊपर देखें ।

(३.) नमः स्वस्तिस्वाहास्वधालंवषड्योगाच्च । (२.३.१६)
===========================


इन शब्दों के योग में चतुर्थी विभक्ति होती है---नमः, स्वस्ति (कल्याण), स्वाहा, स्वधा (कल्याण), अलम् (समर्थ), वषट् (स्वाहा) । इनके उदाहरण ऊपर दे दिए गए हैं ।
===============================
वेबसाइट---
www.vaidiksanskritk.com
www.shishusanskritam.com
संस्कृत नौकरियों के लिए---
www.facebook.com/sanskritnaukari
आयुर्वेद और हमारा जीवनः--
www.facebook.com/aayurvedjeevan
चाणक्य-नीति पढें---
www.facebook.com/chaanakyaneeti
वैदिक साहित्य की जानकारी प्राप्त करें---
www.facebook.com/vaidiksanskrit
www.facebook.com/shabdanu
लौकिक साहित्य पढें---
www.facebook.com/laukiksanskrit
आर्ष-साहित्य और आर्य विचारधारा के लिए
www.facebook.com/aarshdrishti
सामान्य ज्ञान प्राप्त करें---
www.facebook.com/jnanodaya
संस्कृत सीखें---
www.facebook.com/shishusanskritam
संस्कृत निबन्ध पढें----
www.facebook.com/girvanvani
संस्कृत काव्य का रसास्वादन करें---
www.facebook.com/kavyanzali
संस्कृत सूक्ति पढें---
www.facebook.com/suktisudha
संस्कृत की कहानियाँ पढें---
www.facebook.com/kathamanzari
संस्कृत में मनोरंजन--
www.facebook.com/patakshepa

मम प्रिया क्रीडा कबड्डी

!!!---: मम प्रिया क्रीडा कबड्डी :---!!!
============================

कबड्डी मम प्रिया क्रीडा अस्ति । एषा भारतीयानां प्राचीना क्रीडा अस्ति । इयं भारतीयवातावरणस्य सर्वथा अनुकूला वर्तते ।

अस्यां क्रीडायां दलद्वयं वर्तते । समस्तं क्रीडाक्षेत्रं द्वयोः समानभागयोः विभक्तं वर्तते । तयोः मध्ये स्थिता "पाला" नाम्नी मध्यरेखा वर्तते ।

प्रत्येकं दले प्रायेण नव नव क्रीडकाः सन्ति । इयं क्रीडा श्वास-अवरोधक-क्रीडा अस्ति ।

इयं क्रीडा ग्रामेषु अधिका लोकप्रिया अस्ति । एकभागस्य क्रीडकः कबड्डी-कबड्डी इति वदन अपरभागं गच्छति ।

सः यावत् क्रीडकान् स्पृशति तावतः एव अङ्कान् लभते । तथैव द्वितीयभागस्य क्रीडकः अपि करोति । अन्ते अधिकांकग्राही पक्षः विजयी भवति ।
===============================
वेबसाइट---
www.vaidiksanskritk.com
www.shishusanskritam.com
संस्कृत नौकरियों के लिए---
www.facebook.com/sanskritnaukari
आयुर्वेद और हमारा जीवनः--
www.facebook.com/aayurvedjeevan
चाणक्य-नीति पढें---
www.facebook.com/chaanakyaneeti
वैदिक साहित्य की जानकारी प्राप्त करें---
www.facebook.com/vaidiksanskrit
www.facebook.com/shabdanu
लौकिक साहित्य पढें---
www.facebook.com/laukiksanskrit
आर्ष-साहित्य और आर्य विचारधारा के लिए
www.facebook.com/aarshdrishti
सामान्य ज्ञान प्राप्त करें---
www.facebook.com/jnanodaya
संस्कृत सीखें---
www.facebook.com/shishusanskritam
संस्कृत निबन्ध पढें----
www.facebook.com/girvanvani
संस्कृत काव्य का रसास्वादन करें---
www.facebook.com/kavyanzali
संस्कृत सूक्ति पढें---
www.facebook.com/suktisudha
संस्कृत की कहानियाँ पढें---
www.facebook.com/kathamanzari
संस्कृत में मनोरंजन--
www.facebook.com/patakshepa

दुर्वासा ऋषि के साथ चतुर्थी विभक्ति


दुर्वासा ऋषि का चतुर्थी विभक्ति प्रयोग
=========================
दुर्वासा महाक्रोधी तापसः आसीत् ।

सः महर्षेः कण्वस्य आश्रमम् अगच्छत् ।

तत्र शकुन्तला ध्यानमग्ना आसीत् ।

दुर्वासा, "देवि, तापसाय भिक्षां देहि" इति याचनाम् अकरोत् ।

शकुन्तला तां न अशृणोत् ।

दुर्वासा भिक्षायै स्पृहयति स्म ।

अतः सः शकुन्तलायै अक्रुध्यत् ।

सः तस्यै शापमपि अयच्छत् ।

क्रोधः मनसः विकारः अस्ति ।

असूया अपि मनसः विकारः अस्ति ।

ये परेषां सम्पदां न सहन्ते ते परेभ्यः असूयति ।

धिक् तान् असूयाग्रस्तान् ।
===============================

नियमः--
========

(१.) "क्रुधद्रुहेर्ष्यासूयार्थानां यं प्रति कोपः" (१.४.३७)

जिस पर क्रोध किया जाये, उसमें चतुर्थी विभक्ति होती है । क्रोध के पर्याय से भी चतुर्थी हो जाती है । क्रुध्, द्रुह्, ईर्ष्या, आसूय् के योग में चतुर्थी होती है । जैसे---"अतः सः शकुन्तलायै अक्रुध्यत् ।"

(२.) जिस पर स्पृहा (चाहत) हो, उसमें भी चतुर्थी होती है---"स्पृहेरीप्सितः" (१.४.३६)

स्पृह् के योग में चतुर्थी होती है । जैसे---"दुर्वासा भिक्षायै स्पृहयति स्म ।"

(३.) "कर्मणा यमभिप्रैति स सम्प्रदानम्" (१.४.३२) कर्म के द्वारा जिसे सबसे अधिका चाहा जाए, उसमें सम्प्रदान होता है । जैसे---"देवि, तापसाय भिक्षां देहि"

(४.) सम्प्रदान में चतुर्थी विभक्ति होती है---"चतुर्थी सम्प्रदाने" (२.३.१३)
===============================
वेबसाइट---
www.vaidiksanskritk.com
www.shishusanskritam.com
संस्कृत नौकरियों के लिए---
www.facebook.com/sanskritnaukari
आयुर्वेद और हमारा जीवनः--
www.facebook.com/aayurvedjeevan
चाणक्य-नीति पढें---
www.facebook.com/chaanakyaneeti
वैदिक साहित्य की जानकारी प्राप्त करें---
www.facebook.com/vaidiksanskrit
www.facebook.com/shabdanu
लौकिक साहित्य पढें---
www.facebook.com/laukiksanskrit
आर्ष-साहित्य और आर्य विचारधारा के लिए
www.facebook.com/aarshdrishti
सामान्य ज्ञान प्राप्त करें---
www.facebook.com/jnanodaya
संस्कृत सीखें---
www.facebook.com/shishusanskritam
संस्कृत निबन्ध पढें----
www.facebook.com/girvanvani
संस्कृत काव्य का रसास्वादन करें---
www.facebook.com/kavyanzali
संस्कृत सूक्ति पढें---
www.facebook.com/suktisudha
संस्कृत की कहानियाँ पढें---
www.facebook.com/kathamanzari
संस्कृत में मनोरंजन--
www.facebook.com/patakshepa